सङ्घीभूता इमे नियमा आम्नायपदेन व्यपदिश्यन्ते | परमेश्वरश्चेमान् स्वीयैः पञ्चभिर्मुखैः प्रोक्तवान्, अत एव पञ्चाम्नाया इति प्रसिद्धः |
परमेश्वरस्य ( काल्पनिकं ) पूर्वमुखं पूर्वाम्नाय इति कथ्यते | अस्याम्नायस्य मुख्यो धर्मः ‘सृष्टिः’मार्गश्च मन्त्रयोगाख्यः | चतुर्विंशतिः सिद्धान्ताः सन्ति | दक्षिणमुखं दक्षिणाम्नायपदेन उच्यते | अस्मिन्नाम्नाये मुख्यो धर्मः स्थितिः मार्गश्च भक्त्याख्यः | पञ्चविंशतिः सिद्धान्ताः | पश्चिममुखं पश्चिमाम्नायपदेन व्यपदिश्यते | अस्मिन्नाम्नाये संहारमुख्यो धर्मः, कर्ममार्गः, द्वात्रिंशत् सिद्धान्ताः सन्ति | उत्तरमुकमुत्तराम्नायः | अत्र च कृपा मुख्यो धर्मः, ज्ञानाख्यो मार्गः | षट् त्रिंशत् सिद्धान्ताः सन्ति |
ऊर्ध्वमुखं यच्च सर्वोत्तममस्ति ऊर्ध्वाम्नाय पदेन व्यवह्रियते | अत्र मुख्यो धर्मः पूर्णब्रह्म इति रहस्यपूर्णोपदेशः | एवं च ऊर्ध्वाम्नायः सर्वानतिशेते |
अध आम्नायः षष्ठाम्नाय इति व्यवह्रियते |
परशुरामकल्पसूत्रीय प्रथमखण्ड द्वितीयसूत्रीयभाष्ये वृत्तिकारः अम्नायानां प्रयोजनं वर्णयति | तथाहि –
नन्वष्टादशसु विद्यासु सतीषु पुनराम्नायप्रणयनं व्यर्थमत आह संविन्मय्येति | अयमभिप्रायः -पुरुषार्थं सुखं तच्च नैसर्गिकं कृत्रिमञ्चेति | नैसर्गिकं मोक्षरूपं कृत्रिमं यस्तृतीयः पुरुषार्थः काम इत्युच्यते | उभयोः साधनं धर्मः तस्यापि साधनमर्थः | तत्र कृत्रिमपुरुषार्थसाधनान्येवाष्टादशविद्याभिः प्राकट्येन प्रतिपादितानि | अकृत्रिम पुरुषार्थो यस्तत्साधनं अकृत्रिमं स्पष्टं न प्रतिपादितम् | कृत्रिमोपदेशश्चाकिञ्चित्करो लोकानामिति जगदेव दुःखपङ्कनिमग्नमुद्दिधीर्युराम्नायविद्यां प्रणिनाय | एतावता च विदितमेव स्याद् विदुषामाम्नायस्य मुक्तिप्रदत्वादधिकं प्रयोजनम् |
षडाम्नायतन्त्रे पूर्वाम्नायस्य शब्दस्वरूपत्वं, दक्षिणाम्नायस्य श्रवणात्मकत्वं, पश्चिमाम्नायस्य ब्रह्मात्मकत्वं, उत्तराम्नायस्य उत्तराननरूपत्वं, ऊर्ध्वाम्नायस्य तत्त्वरूपत्वं प्रोक्तम् | तथाहि –
पूर्वाम्नायः शब्दरूपं दक्षिणः श्रवणात्मकम् |
ब्रह्म पश्चिम आम्नाय उत्तरं उत्तराननम् |
ऊर्ध्वाम्नायस्तत्त्वरूपं षडम्ना कुलसाधनम् ||
भगवत्पूज्यपादाः शङ्कराचार्या मठाम्नायसेतौ मठाम्नायोपनिषदि च पूर्वपश्चिम उत्तरदक्षिणोर्ध्वात्मनिष्कल भेदेन सप्ताम्नायान् तदीयमठांश्च वर्णयन्ति | तद्यथा –
प्रथमः पश्चिमाम्नायः शारदामठ उच्यते |
पूर्वाम्नायो द्वितीयः स्यात् गोवर्धनमठः स्मृतः ||
तृतीयस्तूत्तराम्नायो ज्योतिष्मान् हि मठो भवेत् |
चतुर्थो दक्षिणाम्नायः शृङ्गेरी तु मठो भवेत् |
पञ्चमस्तूर्ध्व आम्नायः सुमेरुर्मठ उच्यते ||
षष्ठः स्वात्माख्य आम्नायः परमात्मा मठो भवेत् |
सप्तमो निष्कलाम्नायः सहस्रार्कद्युतिर्मठः ||
कुलार्णवतन्त्रानुसारेण –
चतुराम्नायविज्ञानादूर्ध्वाम्नायः परः प्रिये |
तस्मात्तदेव जानीयात् यदीच्छेत्सिद्धिमात्मनः ||
ऊर्वत्वात् सर्वधर्माणां ऊर्ध्वाम्नायः प्रशस्यते |
ऊर्ध्वं नयत्यधस्थञ्च ऊर्ध्वाम्नाय इतीरितः ||
तस्माद्देवेशि जानीहि साक्षान्मोक्षैकसाधनम् |
सर्वाम्नायाधिकफलमूर्ध्वाम्नायः परात्परम् ||
पुनश्च तत्रैव भगवान् सदाशिवः –
सर्वलोकेषु सर्वेभ्यो ह्यहं पूज्यो यथा प्रिये |
आम्नायेषु च सर्वेषु ऊर्ध्वाम्नायस्तथा शिवे ||
इत्यारभ्य तथैव सर्वधर्माणां ऊर्ध्वाम्नायोऽधिकः प्रिये इत्येतदन्तग्रन्थेन ऊर्ध्वाम्नायस्य इतराम्नायापेक्षया श्रेष्ठत्वमजूघुषत् |
इत्थमागमादिप्रतिपादितं परमप्रसिद्धमूर्ध्वाम्नायं सुमेरुमठं वाराणसेयविद्वत्सहकारेण विश्ववन्द्या निगमागमाखिल शास्त्रपारङ्गताः सर्वतन्त्रस्वतन्त्रा यतिचक्रचूडामणयोऽनन्तश्रीविभूषिताः श्रीकरपात्रपादा उद्धरन् ||