अन्धःकोशे विधाता गरुडवररथः प्राणकोशे च रुद्रः
चेतःकोशे महेशस्तदनु च वरविज्ञानकोशे सदाख्यः |
आनन्दाभिख्यकोशे लसति च सततं यस्य शम्भोर्निदेशात्
तं देवं राजराजेश्वरवरसुहृदं कुञ्चितांघ्रिं भजेऽहम् ||
यत्स्तूप्यः शक्तिरूपास्तदधरविलसद्रोमरूपाश्च कीला
उच्छ्वासाः स्वर्णपट्टास्तदुदरनिहिता दण्डरूपाश्च नाड्यः |
नाड्यन्तः सर्वलोकाः फलकतनुगता हस्तरूपाः कलाश्च
तस्यां यो नृत्यतीशस्तमनुपमतनुं कुञ्चितांघ्रिं भजेऽहम् ||
विघ्नेशस्कन्दलक्ष्मीविधिमुखशरराट् पादुकावज्रलिङ्ग-
ज्योतिनृत्तस्वरूपैर्वरुणमुखजुषा हाटकाकर्षमूर्त्या |
स्वाग्रे दक्षे च वामे परिवृतसदसि श्रीशिवानायको यो
मध्ये नृत्तं करोति प्रभुवरमनघं कुञ्चितांघ्रिं भजेऽहम् ||
यद्भासा भाति नित्यं सकलमपि जगत् तत्परञ्ज्योतिरेव
वैराजे हृत्सरोजे कनकसदसि वै साम्बनृत्तेशमूर्तिः |
भूत्वा नृत्तं करोति प्रभुरपि जगतां रक्षणे जागरूकः
तं देवं चित्सभेशं विधृतसुमसृणिं कुञ्चितांघ्रिं भजेऽहम् ||
ब्रह्माण्डं यस्य देहं रविजदिशि पदो वक्त्रबृन्दान्युदीच्यां
तद्वैराजान्तरङ्गे विलसति हृदयाम्भोरुहे दक्षिणाग्रे |
मध्ये सम्मेलनाख्ये मुनिवरमनसा भाविते यन्त्रराजे
यः शक्त्या नृत्यतीशस्तमपि नटपतिं कुञ्चितांघ्रिं भजेऽहम् ||
पञ्चाशत्कोटिसंख्यापरिमितधरणिश्रीविराडाख्यधातोः
एकस्वान्ताब्जभित्तिस्थितकनकमहायन्त्रराट् कर्णिकायाम् |
नृत्यन्तं चित्सभेशं त्रिसृभिरपि सदा शक्तिभिः सेविताङ्घ्रिं
नादान्ते भासमानं नवविधनटनं कुञ्चितांघ्रिं भजेऽहम् ||
स्वामिन् संसारवार्धावधिकभयकरे दुस्तरे पाशनक्र-
च्छन्ने मग्नान्तरं मामधिगतसदाचारवृत्तिं शताग्र्यम् |
दीनं त्वत्पादपूजाविमुखमघयुतं रक्ष रक्षेत्यजस्रं
सर्वे लोकाः श्रयन्ते यमपि सदसि तं कुञ्चितांघ्रिं भजेऽहम् ||
येषां वेदोक्तकर्मस्वनधिकृतिरभूदद्रिजाता पृथिव्यां
तेषां धर्मादिमाप्त्यै परशिवरचितं कामिकादिप्रभेदम् |
साङ्गं सिद्धान्ततन्त्रप्रकरमपि चतुःषष्टिसंख्याः कलाश्च
यस्यादेशात् प्रकाशं त्वनयदनुगतं कुञ्चितांघ्रिं भजेऽहम् ||
सद्योजातादिमानां वदनजलभुवां पञ्चकाद्यस्य जातान्
मन्त्रांस्त्रैलोक्यवश्यप्रमुखवरमहासिद्धिदान् सप्तकोटीन् |
श्रुत्वा गौरी यदुक्त्या जगदुपकृतये सप्रयोगान् सकल्पान्
तान् लोकानानिनाय स्वयमतुलकृतिं कुञ्चितांघ्रिं भजेऽहम् ||
वेदान्ते वाक्यरूपा उपनिषद इमा ब्रह्मसामीप्यभाजः
तासां मुख्या दशस्युर्यतिविरचितमहाभाष्ययुक्ता महत्यः |
स्तम्भाकाराः स्तुवन्ति स्वविदितनटनं सर्वदा ब्रह्मरूपं
तं देवं चित्सभेशं परमतिमहसं कुञ्चितांघ्रिं भजेऽहम् ||
सत्यं ब्रह्मैव नान्यज्जगदिदमखिलं चेति मीमांसयित्वा
त्रय्यन्तोक्त्या बुधेन्द्रा हृदि च यमनिशं चिद्घनं दुर्निरीक्ष्यम् |
दीपज्वालाशिखावत् सततपरिचयानन्दनृत्तं विमायं
शुभ्रं पश्यन्ति तत्सत्पदविषयमरं कुञ्चितांघ्रिं भजेऽहम् ||
प्रत्याहारादियोगैः हृदयकमलतो ब्रह्मरन्ध्रं स्वकीयं
प्राणानानीय दिव्यं गणमपि शरदां वाहयन्तो महान्तः |
योगीन्द्राः सिद्धविद्यौषधिमणिगुलिकासेवया वज्रदेहाः
स्वात्मानं यं भजन्ति ज्वलनवरदृशं कुञ्चितांघ्रिं भजेऽहम् ||
गङ्गातीरस्य पश्चाद्विलसति सदने सच्चिदानन्दरूपा
देवी या सर्वविद्यालयमुखकमला भासते वेदहस्ता |
या यस्य ज्ञानशक्तिः शिवपदसहिता कामसुन्दर्यभिख्या
तद्देव्या दृष्टनृत्तं श्रुतिनिहितपदं कुञ्चितांघ्रिं भजेऽहम् ||
पश्येदं स्वर्णशृङ्गं मम सदनवरं गौरि केदारसंज्ञं
काशीं काञ्चीपुरीमप्यरुणगिरिवरं श्वेतकान्तारदेश्यम् |
वेदारण्यं च सेतुं मुहुरपि वृषभं योऽधितिष्ठन् प्रियायै
निर्दिश्याप्नोति नैजं निलयमनुदिनं कुञ्चितांघ्रिं भजेऽहम् ||
कात्यायन्याः कराब्जं दिनकरवदनाधीतवेदार्थबोधात्
लब्धानन्दान्तरङ्गप्रशमिततमसस्तापसस्याश्रमे यः |
गृह्णन् संसारवार्धावधिकभयकरे मग्नसत्त्वप्रपञ्चं
नित्यं रक्षन्नजस्रं जयति शिवपुरे कुञ्चितांघ्रिं भजेऽहम् ||
काल्या साकं पुरा यः सुरमुनिसदसि स्वाङ्घ्रिमुद्याम चोर्ध्वं
नृत्तं कृत्वाऽथ कालीं पशुपतिरजयत् तद्बहिष्कारपूर्वम् |
सर्वे देवा मुनीन्द्राः प्रभुरिति च वदन्त्यूर्ध्वनृत्तेशमूर्तिं
यं देवं पूजयन्ति प्रतिदिनमनघाः कुञ्चितांघ्रिं भजेऽहम् ||
युद्धे भग्नोरुकायं नरहरिवपुषं गण्डभेरुण्डरूपी
भूत्वा गर्जन्तमग्रे शरभखगपतिर्यः स्वफालाक्षिकुण्डात् |
उग्रप्रत्यङ्गिराख्यां शतशतवदनां कालिकां आशु सृष्ट्वा
तस्या जिह्वाग्रवह्निं सुचरुवदनयत् कुञ्चितांघ्रिं भजेऽहम् ||
काचिन्नालायनीति प्रथितमुनिसती भर्तुरिष्टानुकूला
माण्डव्यप्रोक्तशापज्वलनशमनकृद्दुर्दिनश्रीविलासा |
यन्मन्त्रध्यानयोगादनितरसुलभान् पञ्चकान्तान् नरेन्द्रान्
लेभे जन्मादिहीनं शिवपदमपि तं कुञ्चितांघ्रिं भजेऽहम् ||
आमन्वश्रं सुदीप्तं निजतनुमभितः सत्यरूपप्रभातः
वामे युक्तं स्वशक्त्या वसुदलकमलस्वार्णकिञ्जल्कशोभम् |
याप्तं साहस्रकोष्ठस्थितशिवमनुभिर्मोहनाद्यैर्यदीयं
चक्रं संपूजयन्ति प्रतिदिनमनघाः कुञ्चितांघ्रिं भजेऽहम् ||
त्रैचत्वारिम्शदश्रे वसुनृपकमले वृत्तभूचक्रमध्ये
बिन्दौ सन्तानकल्पद्रुमनिकरयुते रत्नसौधे मनोज्ञे |
ब्रह्माद्याकारपादे शिवमयफलके स्वर्णमञ्चे निषण्णा
देव्या यः पूजको तं हरिमुखविबुधैः कुञ्चितांघ्रिं भजेऽहम् ||
The glory of Chitsabhā and of the nine sacred chakras worshiped therein (śrīcakra, Shiva-chakra, Mahāsammēlana chakra, Dhvani chakra, Chintāmaṇi chakra, Mahātāṇḍava chakra, Lalitā chakra, Gaṇapati chakra and Skanda chakra which represent the navādhāras with the śrīcakra as the mukhya-bindu) is conveyed succinctly by Umāpati Shivācārya in his Naṭarāja stava, few select verses from which are presented here. When time permits, we shall discuss more on this based on the fascinating text of Pātañjala pūjāsūtra, which dictates the rituals at Chidambaram.