श्रीहंसी: मनीषिन्! कीदृग्विध आम्नायमन्त्रभेदः? प्रकाश्यतां परमकृपया किं कार्यम् ।
श्रीहंसः: मनीषिणि! मा शङ्कस्व, शृणु सावधानेन आम्नायानुलक्षणं वर्णयामः ।
प्रमदे! मन्त्रास्त्रिविधा, आम्नायोदिताः स्मृतिसूचिताः पुराणप्रदर्शिताश्चेति । उत्तमादिभेदेन तत्राप्याम्नायमन्त्राणां श्रैष्ठ्यम् ।
तत्राप्याम्नायाश्चत्वारः, ऋग्यजुःसामाथर्वनामभिः, तद्यथा । पूर्वदक्षिणपश्चिमोत्तरभेदेन । पूर्वाम्नायः ऋग्वेदः । दक्षिणाम्नायो यजुर्वेदः । पश्चिमाम्नायः सामवेदः । उत्तराम्नायोऽथर्ववेदः । आम्नायः श्रुतिः वेदः इति पर्यायवाचकाः ।
अथापि कश्चिद्विशेषः श्रूयते । कस्यचित् परमेश्वरस्य निश्वासरूपो वेदः ।
अत्र श्रीसायणाचार्यः –
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलञ्जगत् ।
निर्ममे तमहं वन्दे वीद्यातीर्थमहेश्वरम् ॥ – इत्युक्तवान् ।
आम्नायस्तु श्रीपरमेश्वरेण तदर्थभूतः श्रीप्रियां प्रति प्रव्यक्तमुक्तः ।
आङ्गपूर्वो मनिधातुरूपदेशार्थ इत्यत आम्नायवेदयोरीषद्भेदो भासते ।
किञ्च, केवलं वेददर्शिता ये ये मन्त्रास्ते तु धर्मकर्मपराः, न मोक्षाय । कुतस्तेषां कर्मकाण्डयोग्यत्वात् । अतः कर्मकाण्डमन्त्रेभ्यो ज्ञानकाण्डमन्त्राः श्रेष्ठाः । ननु ‘मन्त्रे कर्माणि’ इति श्रुतेः तेषामपि कर्मकाण्डत्वम् । सत्यं, यद्यपि ज्ञानकाण्डमन्त्रेषु नानाविधानि कर्माण्युल्लसन्ति । तदपि तन्मन्त्रदर्शितानि कर्माणि तु मोक्षायैव सन्ति, न पुनर्भोगाय इत्याशङ्क्यम् । तत् कर्म यन्न बन्धायेत्युक्तेः । कण्टकं कण्टकेन, लोहं लोहेन, मलं मलेनेव ज्ञानकाण्डमन्त्रकर्मभिः धर्मकाण्डमन्त्राणामुत्सेधः ।
ननु, ज्ञानकाण्डमन्त्रकर्मणामपि फलं मोक्षलक्षणम् । मैवम् । यथा वेणुद्वयसङ्घर्षोत्थितवह्निः तद्द्वयं प्रशमय्य स्वयञ्च शाम्यति । तद्वत् धर्मज्ञानकर्मोत्थितविवेकः तत्कर्मद्वयफलं दग्ध्वा स्वयञ्च शाम्येत् । न तु ज्ञानमन्त्रकर्मणां मोक्शलक्षणं फलं भविष्यतीत्याशङ्क्यम् । पञ्जरे भग्ने पक्षीव कर्मफले दग्धे स्वयं मुक्त एव ।
किञ्च, यद्यपि, ‘आम्नयस्य क्रियार्थत्वादानर्थक्यमतदर्तानाम्’इति जैमिनिना ज्ञानकाण्डं दूषितम् । तथापि तदसत्, ज्ञानकाण्डमन्त्रकर्मणां ज्ञानमात्रत्वात्, ज्ञानमेव मोक्ष इति । न किञ्चिन्मन्त्रेण कर्मणा वा साध्यमित्यूह्यम् । यथा धर्मकाण्डमन्त्रकर्मभिः नाना फलं लभ्यं, न तथा ज्ञानकाण्डमन्त्रादिभिः इक्षुशरलताफलवल्लभ्यमित्यतः ज्ञानकाण्डमन्त्राणां तद्दर्शितकर्माणां च सर्वतः श्रैष्ठ्यं मुमुक्षुषु । अतो मुमुक्षवस्तु ज्ञानकाण्डमन्त्रकर्मभिरेवोपदेश्याः न धर्मकाण्डमन्त्रादिभिः ।
किञ्च, केवलं वेददर्शितं ज्ञानकाण्डं तु नाञ्जसा स्फुटम् । न च स्त्रीशूद्रादिभिः पामरैः प्राप्यम् । अतस्तदेव दयालुना श्रीपरमेश्वरेण प्रेयसीं प्रति प्रकटीकृत्योपदिष्टं, तदन्यदपि कर्मकाण्डमुपासनाकाण्डं च ।
अत एव श्रीपरमेश्वरस्य स्पष्टवचनमाम्नायः, निश्वासरूपो वेद इति स्पष्टार्थः ।
किञ्च, केवलवेदमन्त्रेषु ब्राह्मणक्षत्रियवैश्यानामेवाधिकारः, न तु सर्वेषां, नानाभेधार्थोत्थितत्वात् । तदर्थभूताम्नायमन्त्रेषु तु सर्वेषां उमुक्षूणामधिकारः, भेदराहित्यात्, स्त्रियमुद्धिश्योदितत्वाcच । अतः श्रुतिमन्त्रेभ्यः परं श्रैष्ठ्यं आम्नायमन्त्राणाम् ॥
कान्ते! केचन बालिशा बलाद्वैदिकमन्त्रा एव मन्त्रा इत्यतत्त्वविदो यत्र तत्र जल्पन्ति, न हि तेषामत्र परत्र च परं सुखम् । अविवेकत्वात् । वैदिकमन्त्रा एव विशदीकृतविविधर्थाः श्रीपरमेश्वरेण स्वाम्नायेषु दयितामुपदिष्टाः । न चैतत् हृदयान्धैरवलोक्यते । किमन्यत् ॥
श्रीपरमेश्वरदर्शिताम्नाया अपि बहवः सन्ति । तत्तदाम्नायेषु तथाविधा मन्त्रा अप्यनेकशः । कर्माण्यपि विचित्राणि, पृथग्विधं च फलम् । अतो जलमिश्रदुग्धपाने मरालवत् परमचतुर एव आम्नायमन्त्रव्रातेभ्यः सन्मन्त्रं स्वीकुर्वीत ॥
श्रीपरमेश्वरेण ऋगाद्यानां चतुर्णां वेदानां अर्थमुन्मथ्य विचित्रमन्त्रतन्त्रादिकं आम्नायेषु चतुर्ष्वभिहितम् । तथैव तेषु कर्मभक्तिज्ञानराजयोगाभिधं तत्त्वमप्याततम् । तथापि प्रेयस्याः स्वान्तमत्यर्थं नो तृप्तम् । ततः पूर्णप्रेम्णा श्रीप्रियतमेन पुनः पञ्चमसूक्ष्मवेदार्थमखिलमादाय कृत्स्नोपनिषत् सारभूत षोडशमहावाख्य तद्बीजभूत श्रीमदूर्ध्वाम्नायनिर्वर्णनेन श्रीवरवर्णिनीवदनमाह्लादितम् ॥
किमधिकम् । सकलरहस्यान्तरहस्यरूपेण श्रीमतोर्ध्वाम्नायेन सदृशी न काचन सरस्वतीति सद्रसिकैरनवरतं निर्णेतव्यम् । निश्चितं पूर्वदक्षिणपश्चिमोत्तर लक्षणेषु चतुर्ष्वप्याम्नायेषु ये ये मन्त्रास्तेषु न सम्यक् सामरस्यं दृश्यते । कस्मात्? विभिन्नत्वात् । केcछाक्ताः । अपरे तु केवलं शैवाः । वैष्णवादयोऽपि केचित् । न तु श्रीशक्तिशिवयोः अद्वैतरसरूपो मध्वपूपवत् पूर्णोऽणुरवेक्ष्यते । श्रीमत्यूर्ध्वाम्नाये तु श्रीशिवशक्त्योः सामरस्यलक्षणः पारमहंस्यो मन्त्रः प्रोल्लस्यते । अतः श्रीमदूर्ध्वाम्नाय एव सर्वतः श्रेयान् ॥
किञ्च साक्षान्निश्रेयसाय शाक्तः शैवो वा सन्मुमुक्षुभ्यः सद्भिः मनुर्दातव्यः । कृष्णमन्त्रस्तु सामान्यः सालोक्यादि सम्पादकः । अन्ये वैष्णवमन्त्रास्तु वैकुण्ठाप्तिहेतवः । तथैव इतरशैवमनवोऽपि केवलं कैलाससुखसम्पादकाः, सौराश्च गाणपत्या अपि नाना मनवो भोगमोक्षप्रदा अपि कनीयांस एव मम तु प्रतिभासते । जगदुदयवर्तित्वात् ॥
किं बहुना, नानावरणावृतत्वात् इन्द्रादिजालतुल्येऽस्मिन् जगति नाना जीवाः पृथक्विधप्रारब्धवशाcच फल्गुफललिप्सया तत्तत् पशुशास्त्रश्रुतमाहात्म्यविशेषा नाना देवता ब्रह्माण्डोदरवर्तिनीरनुवर्तन्ते न खलु तेषामत्राऽमुत्र च श्रीपारमहंस्यसुखं इत्यवबुध्यतां प्रबुद्धा भवती ॥
अपि च सुन्दरि! समग्रमन्त्रविग्रहः श्रीगुरुः सर्वदेवताभ्यः श्रेष्ठः । तत्तन्मूर्त्यादिभेदा अप्यनन्तशः । तथाऽपि श्रीहंसमूर्तिः श्रेयसी सा तु श्रीनगरे श्रीशिवशक्त्योः नेदिष्ठमुपविष्ठाऽस्ति । अतस्तन्मन्त्रः तत्पादुका तत्पारम्पर्यक्रमश्च सद्गुरुणा स्वशिष्याय उपदेष्टव्यः ।
कामिनि! किमधिकं, यथाधिकारं यादृशः शिष्यः तादृग्देवमन्त्र-महापादुकाद्यमुपदेश्यम् ॥