भ्रुवोर्मध्यं यदागच्छेत् स्फोटशब्दस्तु जायते |
बिन्दुं भेदयतो देवि शब्दो धुमधुमायते ||
कपिर्वै नारिकीलेन आचार्यः सह बिन्दुना |
अभिन्नेन कुतो मोक्षं सबाह्याभ्यन्तरं प्रिये ||
भित्त्वा बिन्दुं ततो देवि अर्धचन्द्रं विभेदयेत् |
भिद्यतशार्धचन्द्रस्य भाले झिमिझिमायते ||
अर्धचन्द्रं तु भित्वा वै भेदयेत्तु निरोधिनीम् |
तस्यास्तु भिद्यमानायाः शब्दः सिमिसिमायते ||