या ते पादसरोजधूळिरनिशं ब्रह्मादिभिर्निःस्पृहैः
भक्त्या सन्नतकन्धरैः सकुतुकं संधार्यमाणा हरे |
या विश्वं प्रपुनाति जालमचिरात् संशोषयत्यम्भसा
सा मां हीनगुणं पुनातु नितरां श्रीपद्मनाभान्वहम् ||
तस्मात् छिन्दि मदीय मोहमखिलं संसारबन्धावहं
भक्तिं त्वत्पदयोर्दिश स्थिरतरां सर्वापदुन्मूलिनीम् |
वाणीं त्वत्पदवर्णने पटुतमां विद्वज्जनाह्लादिनीं
देहि त्वत्पदसेवकाय ननु मे कारुण्यवारान्निधे ||
इन्द्रद्युम्ननृपः करीन्द्रजननं प्राप्तोऽथ शापेन वै
नक्राक्रान्तपदो विमोचनपटुः नाभूत्सहस्रं समाः |
भूयस्त्वामयमर्चयन् सरसिजैः शुण्डोद्धृतैः सादरं
सारूप्यं समवाप देव भवतो नक्रोऽपि गन्धर्वताम् ||
पापः कश्चिदजामिलाख्य धरणीदेवोऽवसत्सन्ततं
स्वैरिण्या सह काममोहितमतिः त्वां विस्मरन् मुक्तिदम् |
अन्ते चाह्वयदीश भीतहृदयो नारायणेत्यात्मजं
नीतः सोऽपि भवद्भटैस्तवपदं संरुद्ध्य याम्यान् भटान् ||
सदा प्रसक्तां विषयेष्वशान्तां
मतिं मदीयां जगदेकबन्धो |
तवैव कारुण्यवशादिदानीं
सन्मार्गगां प्रेरय वासुदेव ||
नृणां भवत्पादनिषेवणं तु
महौषधं संसृतिरोगहारि |
तदेव मे पङ्कजनाभ भूयात्
त्वन्मायया मोहितमानसस्य ||
यदीह भक्तिस्तव पादपद्मे
स्थिरा जनानामखिलार्तिहन्त्री |
तदा भवेन्मुक्तिरहो करस्था
धर्मार्थकामा किमु वर्णनीयाः ||
चिन्मयाम्बुनिधिवीचिरूप सनकादिचिन्त्य विमलाकृते
जातिकर्मगुणभेदहीन सकलादिमूल जगतां गुरो |
ब्रह्मशङ्करमुखैरमेय विपुलानुभाव करुणानिधे
भावयामि हृदये भवन्तमिह पद्मनाभ परिपाहि माम् ||