सिततरसंविदवाप्यं सदसत्कलनाविहीनमनुपाधि |
जयति जगत्रयरूपं नीरूपं देवि ते रूपम् || १ ||
एकमनेकाकारं प्रसृतजगद्व्याप्तिविकृतिपरिहीनम् |
जयति तवाद्वयरूपं विमलमलं चित्स्वरूपाख्यम् || २ ||
जयति तवोच्छलदन्तः स्वच्छेच्छायाः स्वविग्रहग्रहणम् |
किमपि निरुत्तरसहजस्वरूपसंवित्प्रकाशमयम् || ३ ||
वान्त्वा समस्तकालं भूत्या झङ्कारघोरमूर्तिमपि |
निग्रहमस्मिन् कृत्वानुग्रहमपि कुर्वती जयसि || ४ ||
कालस्य कालि देहं विभज्य मुनिपञ्चसंख्यया भिन्नम् |
स्वस्मिन् विराजमानं तद्रूपं कुर्वती जयसि || ५ ||
भैरवरूपी कालः सृजति जगत्कारणादिकीटान्तम् |
इच्छावशेन यस्याः सा त्वं भुवनाम्बिका जयसि || ६ ||
जयति शशाङ्कदिवाकरपावकधामत्रयान्तरव्यापि |
जननि तव किमपि विमलं स्वरूपरूपं परंधाम || ७ ||
एकं स्वरूपरूपं प्रसरस्थितिविलयभेदस्त्रिविधम् |
प्रत्येकमुदयसंस्थितिलयविश्रमतश्चतुर्विधं तदपि || ८ ||
इति वसुपञ्चकसंख्यं विधाय सहजस्वरूपमात्मीयम् |
विश्वविवर्तावर्तप्रवर्तकं जयति ते रूपम् || ९ ||
सदसद्विभेदसूतेर्दलनपरा कापि सहजसंवित्तिः |
उदिता त्वमेव भगवति जयसि जयाद्येन रूपेण || १० ||
जयति समस्तचराचरविचित्रविश्वप्रपञ्चरचनोर्मि |
अमलस्वभावजलधौ शान्तं कान्तं च ते रूपम् || ११ ||
सहजोल्लासविकासप्रपूरिताशेषविश्वविभवैषा |
पूर्णा तवाम्ब मूर्तिर्जयति परानन्दसंपूर्णा || १२ ||
कवलितसकलजगत्रयविकटमहाकालकवलनोद्युक्ता |
उपभुक्तभावविभवप्रभवापि कृशोदरी जयसि || १३ ||
रूपत्रयपरिवर्जितमसमं रूपत्रयान्तरव्यापि |
अनुभवरूपमरूपं जयति परं किमपि ते रूपम् || १४ ||
अव्ययमकुलममेयं विगलितसदसद्विवेककल्लोलम् |
जयति प्रकाशविभवस्फीतं काल्याः परं धाम || १५ ||
ऋतुमुनिसंख्यं रूपं विभज्य पञ्चप्रकारमेकैकम् |
दिव्यौघमुद्गिरन्ती जयति जगत्तारिणी जननी || १६ ||
भूदिग्गोखगदेवीचक्रसंज्ञानविभवपरिपूर्णम् |
निरुपमविश्रान्तिमयं श्रीपीठं जयति ते रूपम् || १७ ||
प्रलयलयान्तरभूमौ विलसितसदसत्प्रपञ्चपरिहीनाम् |
देवि निरुत्तरतरां नौमि सदा सर्वतः प्रकटाम् || १८ ||
यादृङ्महाश्मशाने हृष्टं देव्याः स्वरूपमकुलस्थम् |
तादृग् जगत्रयमिदं भवतु तवाम्ब प्रसादेन || १९ ||
इत्थं स्वरूपस्तुतिरभ्यधायि
सम्यक्समावेशदशावशेन |
मया शिवेनास्तु शिवाय सम्यक्
ममैव विश्वस्य तु मङ्गलाय || २० ||